Mp Board Class 10th Sanskrit paper Varshik Pariksha 2025-26 | कक्षा 10वीं संस्कृत पेपर वार्षिक परीक्षा PDF Download
एमपी बोर्ड कक्षा 10वीं की वार्षिक परीक्षा 17 फ़रवरी से शुरू होने जा रही हैं, वार्षिक 2026 में बोर्ड परीक्षा देने वाले स्टूडेंट्स की कुल संख्या 16 लाख हैं। एमपी बोर्ड गत वर्ष की भाँति इस वर्ष भी अपने बोर्ड परीक्षा के पैटर्न में बदलाव किया है। आज इस पोस्ट में हम आपको MP board class 10th Sanskrit Real paper 2026 के पैटर्न को दिखाने वाले हैं और आपको ये भी बतायेगे की इस वर्ष बोर्ड परीक्षा का पैटर्न कैसा रहेगा।

kaksha 10vi Sanskrit Asli paper Varshik Pariksha 2026 PDF
आज हम आपको जो प्रश्न पत्र उपलब्ध कराने वाले है वहाँ से आपके mp board exam 2026 में बहुत सारे प्रश्न सेम तो सेम देखने को मिलेगा और आप इन सभी प्रश्न को पढ़ कर बोर्ड परीक्षा में बहुत अच्छे अंक से पास हो सकते हैं। Class 10th Sanskrit paper Annual Exam 2025-26 PDF नीचे दिये लिंक से डाउनलोड करें।
Overview – MP Board Class 10th Sanskrit Varshik Exam pariksha 2026
| Exam Department Name | Madhya Pradesh Board of Secondary Education Examination |
| Exam Name (Hindi) | एमपी बोर्ड वार्षिक परीक्षा 2026 |
| Exam Year | 2026–27 |
| Type of Exam | Varshik Exam |
| Exam Date | 19 Feb |
| Subject | Sanskrit |
| Post Category | Question Paper |
| Official Website | MPBSE |
Mp Board Annual Exam class 10 Sanskrit viral Paper
Mpbse Class 10th Sanskrit paper 2025-26 pdf अनुभवी शिक्षक के द्वारा बनाया हूँ नमूना प्रश्न पत्र है, अगर आप इस प्रश्न पत्र को बहुत अच्छे से पढ़ लेते हैं तो Angreji paper mp board 2026 pdf का परीक्षा से पहले परीक्षा में पूछे जाने वाले प्रश्न का पता चल सकता हैं।

1.उचित विकल्पं चित्वा लिखत — 1×6=6
(i) ‘नदीनाम्’ इत्यस्मिन् पदे का विभक्तिः अस्ति-
(अ) षष्ठी (ब) द्वितीया
(स) चतुर्थी (द) सप्तमी।
(ii) ‘युष्मान्’ इत्यस्मिन् पदे वचनम् किम् ?
(अ) एकवचनम् (ब) द्विवचनम्
(स) बहुवचनम् (द) अन्यवचनम्।
(iii) ‘चतुर्थी विभक्तिः’ अस्ति –
(अ) राजा (ब) राज्ञः
(स) राज्ञोः (द) राज्ञे।
(iv) ‘पित्रा’ इत्यस्मिन् पदे वचनम् अस्ति –
(अ) एकवचनम् (ब) द्विवचनम्
(स) बहुवचनम् (द) अन्यवचनम्।
(v) अहं श्वः विद्यालयं गमिष्यामि’ इत्यस्मिन् वाक्ये अव्ययम् अस्ति –
(अ) अहं (ब) श्वः
(स) ग्राम (द) गमिष्यामि।
(vi) अधोलिखितेषु अव्ययं नास्ति –
(अ) अत्र (ब) तत्र
(स) यत्र (द) सत्र।
2. प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत – 1×6=6
(श्वेतः, काननम्, जननी, पण्डितः, वासवः, द्वितीय)
(i) ‘जननी तुल्यवत्सला’ इत्यनयोः शब्दयोः __________________________________विशेष्यपदम् अस्ति।
(ii) ‘श्वेतः अश्वः’ इत्यनयोः शब्दयोः_______________________________________विशेषणपदम् अस्ति ।
(iii) ‘वनम्’ इत्यस्य पदस्य_______________________________________________पर्यायपदम् अस्ति।
(iv) प्रथम इत्यस्य पदस्य_______________________________________________ विलोमपदम् अस्ति ।
(v) ‘इन्द्रः’ इत्यस्य पदस्य________________________________________________पर्यायपदम् अस्ति।
(vi) मूर्खः इत्यस्य पदस्य ________________________________________________विलोमपदम् अस्ति।
3. युग्ममेलनं कुरुत- 1×6=6
(i) अनुरूपम् (क) द्विगु
(ii) चौरात् भयम् (ख) सत् + जनः
(iii) पञ्चवटी (ग) मनोरथः
(iv) सज्जनः (घ) अव्ययीभावः
(v) मनः + रथः (ङ) गणेशः
(vi) गण + ईशः (च) पञ्चमी तत्पुरुषः
4. एकपदेन उत्तरं लिखत – 1×6=6
(i) ‘आदाय’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(ii) ‘पठितवान्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(iii) ‘कृ + तुमुन्’ मिलित्वा किं पदम् भवति ?
(iv) सरसः तीरे के वसन्ति ?
(v) मनुष्याणां महान् रिपुः कः ?
(vi) सर्वदा सर्वकार्येषु का बलवती ?
5. शुद्धवाक्यानां समक्ष ‘आम्’ अशुद्धवाक्यानां समक्ष ‘न’ इति लिखत – 1×6=6
(i) ‘अपठताम्’ इत्यस्मिन् पदे एकवचनम् अस्ति ।
(ii) ‘गच्छन्तु’ इत्यस्मिन् पदे लृट्लकारः अस्ति ।
(iii) ‘अधिकारः’ इत्यस्मिन् पदे ‘अधि’ उपसर्गः अस्ति ।
(iv) ‘प्राचार्य:’ इत्यस्मिन् पदे ‘प्रा’ उपसर्गः अस्ति ।
(v) द्रक्ष्यन्ति इति पदे मध्यमपुरुषः अस्ति ।
(vi) ‘याचतु’ इत्यस्मिन् पदे एकवचनम् अस्ति ।
6. कुशलवयोः वंशस्य कर्त्ता कः ? 2
अथवा
माता सुरभिः किमर्थम् अश्रुणि मुञ्चति स्म ?
7. वसन्तस्य गुणं कः जानाति । 2
अथवा
अस्माभिः कीदृशः वृक्षः सेवितव्यः ?
8. निर्धनः जनः कथं वित्तम् उपार्जितवान् ? 2
अथवा
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत् ?
9. केषां विस्फोटैरपि भूकम्पो जायते ? 2
अथवा
अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
10. व्याघ्रः किं विचार्य पलायितः ? 2
अथवा
सरसः शोभा केन भवति ?
11. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरूत —(कोऽपि द्वे) 2
(i) धेनूनाम् माता सुरभिः आसीत्।
(ii) मयूरस्य नृत्यं प्रकृतेः आराधना।
(iii) जनकेन सुताय शैशवे विद्याधनं दीयते ।
12. अधोलिखितानि वाक्यानि कः के प्रति कथयति — (कोऽपि द्वे) 2
(i) भोः गज ! मामप्येवमेवातुदन् एते वानराः। कः कम्
(ii) अहं प्रकृतिः युष्माकं सर्वेषां जननी। कः कम्
(iii) मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि। कः कम्
13. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषित एकं लिखत। 2
14. अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीयाः (कोऽपि द्वे) 2
(i) वृक्षेण पत्राणि पतन्ति ।
(ii) ईश्वरं नमः।
(iii) श्री गुरं नमः।
15. रिक्तस्थानानि पूरयत – (कोऽपि चत्वारि) 2
(i) ……………………………जीवनं दुर्वहम् अस्ति ।
(ii) बकः अविचलः ……………………. इव तिष्ठति।
(iii) काकः …………………………………भवति।
(iv) बुद्धिः ………………… तन्वि सर्वकार्येषु सर्वदा।
(V) सर्वेषामेव महत्त्वं विद्यते ………………………..।
(vi) आचार: ………………………………. घर्म: ।
16. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत— 2
(क) वासुदेवः तस्य प्रियः शिष्यः आसीत् ।
(ख) शिष्यः अनन्तरं रामनाथपुरं प्रति प्रस्थितवान् ।
(ग) गङ्गातीरे मार्कण्डेयः नाम कश्चन मुनि वसति स्म।
(घ) किञ्चिदग्रे गतः वासुदेवः कञ्चित् देवालयम् अपश्यत् ।
17. वाच्यपरिवर्तनं कुरूत (कोऽपि द्वे) 2
i) सः रोटिकां खादति। (कर्मवाच्ये)
ii) गायकेन गीतं गीयते। (कर्तृवाच्ये)
iii) छात्रः ग्रन्थं पठति। (कर्मवाच्ये)
18. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- 3
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टी।आरक्षिणि निजपक्ष प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद वारितः, अतः निजकृत्यस्य फलं भुक्ष्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे। इति ।
प्रश्नाः –
(क) केन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ ।
(ख) कः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् ।
(ग) त्वं किं लप्स्यसे ?
अथवा
एकोत्तरद्विसहस्त्रख्रीष्टाब्दे (२००१ ईस्वीये वर्षे) गणतन्त्र दिवस पर्वणि यदा समग्रमपि भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर राज्यं पर्याकुलं, विपर्यस्तम्, कन्दनविकलं विपन्नञ्च जातम्। भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जर क्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्ड खण्डम् जातम् । बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि ।
प्रश्नाः –
(क) भारतराष्ट्र कस्मिन् मग्नमासीत् ?
(ख) कस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्रं ध्वंसावशेषेषु परावर्तितवति ।
(ग) भूकम्पस्य केन्द्रभूतं किम् आसीत् ?
19. अघोलिखितम् पद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत– 3
प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम् ॥
प्रश्नाः –
(क) प्रजासुखे सुखं कस्य ?
(ख) कस्य प्रजानां च हिते हितम् ?
(ग) नात्मप्रिय हितं कस्य ?
अथवा
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
प्रश्नाः –
(क) महान् रिपुः कः अस्ति ?
(ख) आलस्यं हि केषां शरीरस्थो महान् रिपुः ?
(ग) केन समः बन्धुः न अस्ति ?
20. अधोलिखितम् नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – 3
काकः रे परभृत् ! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः ।
गजः समीपतः एवागच्छन् अरे! अरे ! अरे! सर्वं सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि।
वानरः अरे! अरे ! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति ।)
किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
प्रश्नाः 1. काकः किम् अवदत् ?
प्रश्नाः 2. कः विशालकायः ?
प्रश्नाः 3. वानरः किम् करोति ?
अथवा
लवः – भगवन् सहस्त्रदीधितिः ।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम् ?
लवः – भ्रातरावावां सोदयौँ।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम् ।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम् ?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरण-
वन्दनायाम्
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।
प्रश्न- (क) कौ आवां सोदर्यों ?
(ख) कथं शरीरसन्निवेशः ?
(ग) लवः आवां कौ ?
21. अधोलिखितम् अपठितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । (कोऽपि चत्वारि) 4
स्वस्थ-शरीरे एव स्वस्था बुद्धिः वसति । स्वस्था बुद्धि एव स्वस्थविचाराणां जननी अस्ति। व्यायामशीलः मनुष्यः एव नीरोगः चिरंजीवी च भवति। व्यायामशीलाः मनुष्याः प्रायेण रुग्णाः न भवन्ति । विविधरोगाणां चिकित्सा अपि व्यायामेन सम्भवति। अतः जीवनस्य कृते व्यायामः परमावश्यकः।
प्रश्नाः–
(i) उपर्युक्तः गद्यांशस्य उचितशीर्षकं लिखत।
(ii) स्वस्था बुद्धिः कुत्र वसति ?
(iii) कः एव नीरोगः ?
(iv) विविधरोगाणां चिकित्सा केन सम्भवति ?
22. स्वप्राचार्यस्यकृते त्रयदिवसानाम् अवकाशार्थम् एकं प्रार्थनापत्रम् लिखत। 4
अथवा
स्वभ्रातुः जन्मदिनोत्सवस्य कृते स्वमित्राय आमन्त्रणपत्रम् संस्कृते लिखत।
23. अघोलिखितेषु एक विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत– 4
(i) पर्यावरणम्।
(ii) कविः कालिदासः ।
(iii) अस्माकं देशः।’
(iv) संस्कृतभाषाया: महत्वम्।
————————————–
MP Board Class 10th All Subjects PDF
अभी ऊपर जैसे आपने Class 10th Sanskrit paper Varshik Pariksha 2025-26 PDF download किया वैसे ही आप सभी विषय का पीडीएफ डाउनलोड कर अपने पढ़ाई को बेहतर बना सकते हैं।
| Subjects | Download |
|---|---|
| Hindi | Coming Soon |
| English | Coming Soon |
| Math | Coming Soon |
| Science | Coming Soon |
| Social Science | Coming Soon |
| Sanskrit | Coming Soon |
MP Board Best Social Media Platform
| Social icon | Join Now |
|---|---|
| Join Telegram Channel | Click Here |
| Join Instagram Channel | Click Here |
| Join Youtube Channel | Click Here |
| Join Facebook | Click Here |
| Join Home Page | Click Here |
Latest Post
- कक्षा 10वीं संस्कृत पेपर वार्षिक परीक्षा 2026 | Mp Board Class 10th Sanskrit paper Varshik Pariksha 2026 PDF Download
- कक्षा 10वीं अंग्रेजी पेपर वार्षिक परीक्षा 2026 | Mp Board Class 10th English paper Varshik Pariksha 2026 PDF Download
- MP Board Sample paper 2026 Pdf Class 10th 12th एमपी बोर्ड सैम्पल पेपर 2026 का पीडीएफ यहाँ से डाउनलोड करें
- Class 9th Hindi Ardhvarshik Pariksha 2025-26 Paper | कक्षा 9वी हिंदी अर्धवार्षिक परीक्षा 2025 पेपर पीडीएफ
- (Set I) Class 11th Hindi Ardhvarshik Pariksha 2025-26 Paper PDF | कक्षा 11वी हिंदी अर्धवार्षिक परीक्षा 2024 पेपर सेट I